Satsang

We start promptly at 4PM (or 5PM per convenience of the host), generally on the third Sunday of the month.  The schedule is as follows:

04:00 - 04:05 - Shantakaram path
04:05 - 04:35 - Bhajans and Kirtan
04:35 - 05:05 - Shrimad Bhagavad Geeta Yajna
05:05 - 05:25 - Children's presentations
05:25 - 05:50 - Adult presentations and discussion
05:50 - 06:00 - Aarti
06:00 - 06:30 - Mahaprasad

Bhagavad Geeta Yajna Details

Shrimad Bhagavad Geeta Yajna Aahuti is offered upon chanting of Swaha after each verse

Rigveda Invocation

ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् |
होतारं रत्नधातमम् ||

Aachman Mantra

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये |
शंयोरभिस्रवन्तु न: ||

Agni Poojanam

ॐ अग्नये नम: - गन्धं समर्पयामि |
ॐ अग्नये नम: - पुष्पं समर्पयामि ||

Agnim Prajvalitam Vande (while lighting the yajna fire)

अग्निं प्रज्वलितं वंदे जातवेदं हुताशनम् |
सुवर्ण वर्णममलं समिद्धं विश्वतोमुखम् ||१||

ध्यायेद् वह्निं हेमवर्णं त्रिनेत्रं पद्म संस्थितम् |
इष्टशक्तिस्वस्तिकाभीधरिकं मंगलंपरम् ||२||

ॐ अग्नये स्वाहा - इदं अग्नये इदं न मम - दक्षिणनेत्रे
ॐ सोमाय स्वाहा - इदं सोमाय इदं न मम - वामनेत्रे
ॐ अग्निसोमाभ्यां स्वाहा - इदं अग्निसोमाभ्यां इदं न मम - मध्यनेत्रे
ॐ स्विष्टकॄते स्वाहा - इदं स्विष्टकॄते इदं न मम
ॐ भू: स्वाहा - इदं अग्नये इदं न मम ||
ॐ भुव: स्वाहा - इदं वायवे इदं न मम ||
ॐ भूर्भुव: स्व: स्वाहा - इदं प्रजापतये इदं न मम ||

ॐ वैश्वानर जातवेद: इहावह लोहिताक्ष सर्वकर्माणि साध्य स्वाहा
ॐ देवकृतस्यैनसोऽवयजनमासि स्वाहा
ॐ मनुष्यकृतस्यैनसोऽवयजनमासि स्वाहा
ॐ पितृकृतस्यैनसोऽवयजनमासि स्वाहा
ॐ आत्मकृतस्यैनसोऽवयजनमासि स्वाहा
ॐ ऐनस: ऐनसोऽवयजनमासि स्वाहा
ॐ यच्चाहमेनो विद्वांश्चकार यच्चाविद्वांस्तस्य सर्वस्यैनसोऽवयजनमासि स्वाहा |

Vasudev Sutam Devam (two times)

वसुदेव सुतं देवं कंस चाणूर मर्दनम् |
देवकी परमानन्दं कॄष्णं वन्दे जगद्गुरुम् ||

Chapter XI - Verses 36-46

अर्जुन उवाच |
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च |
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ||११- ३६||

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ||११- ३७||

त्वमादिदेवः पुरुषः पुराणस्-
त्वमस्य विश्वस्य परं निधानम् |
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ||११- ३८||

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ||११- ३९||

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ||११- ४०||

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति |
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ||११- ४१||

यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु |
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ||११- ४२||

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ||११- ४३||

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् |
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ||११- ४४||

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे |
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ||११- ४५||

किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव |
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ||११- ४६||

Chapter XII


अथ द्वादशोऽध्यायः | भक्तियोगः

अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१२- १||

श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ||१२- २||

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ||१२- ३||

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||१२- ४||

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||१२- ५||

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परा: |
अनन्येनैव योगेन मां ध्यायन्त उपासते ||१२- ६||

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||१२- ७||

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||१२- ८||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||१२- ९||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१२- १०||

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||१२- ११||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२- १२||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१२- १३||

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१२- १४||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१२- १५||

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१२- १६||

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१२- १७||

समः शत्रौ च मित्रे च तथा मानापमानयोः |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१२- १८||

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१२- १९||

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||१२- २०||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ||१२||

Chapter XV

अथ पञ्चदशोऽध्यायः | पुरुषोत्तमयोगः

श्रीभगवानुवाच |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१५- १||

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः |
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ||१५- २||

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा |
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ||१५- ३||

ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः |
तमेव चाद्यं पुरुषं प्रपद्ये |
यतः प्रवृत्तिः प्रसृता पुराणी ||१५- ४||

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् ||१५- ५||

न तद्भासयते सूर्यो न शशाङ्को न पावकः |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||१५- ६||

ममैवांशो जीवलोके जीवभूतः सनातनः |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||१५- ७||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||१५- ८||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
अधिष्ठाय मनश्चायं विषयानुपसेवते ||१५- ९||

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१५- १०||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||१५- ११||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१५- १२||

गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१५- १३||

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१५- १४||

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च |
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ||१५- १५||

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१५- १६||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१५- १७||

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१५- १८||

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |
स सर्वविद्भजति मां सर्वभावेन भारत ||१५- १९||

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||१५- २०||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ||१५||

Gayatri Mantra (3 times)

ॐ भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥

Maha Mrtyunjay Mantra (3 times)

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ||

Geeta Mahatmya

अथ श्रीमद्भगवद्गीतामाहात्म्यम्

गीताशास्त्रमिदं पुण्यं य​: पठेत्प्रयत: पुमान् ।
विष्णो: पदमवाप्नोति भयशोकादिवर्जित​: ॥१॥

गीताध्ययनशीलस्य प्राणायामपरस्य च ।
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥ २ ॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने ॥
सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ ३ ॥

गीता सुगीता कर्तव्या किमन्यै: शास्त्रविस्तरै: ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनि:सृता ॥ ४ ॥

भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनि:सृतम् ।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ॥ ५ ॥

सर्वोपनिषदो गावो दोग्धा गोपालनन्दन​: ।
पार्थो वत्स​: सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ६ ॥

एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव ।
एको मंत्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥

Vasudev Sutam Devam (once)

वसुदेव सुतं देवं कंस चाणूर मर्दनम् |
देवकी परमानन्दं कॄष्णं वन्दे जगद्गुरुम् ||

Poorna Ahuti

ऊँ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।

Bhog Mantras

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||४- २४||

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||९- २६||

Shrimad Bhagavad Geeta Aarti

जय भगवद्गीते, ॐ जय भगवद्गीते
हरि-हिय-कमल-विहारिणि सुन्दर सुपुनीते ।। ॐ जय

कर्म-सुमर्म-प्रकाशिनि कामासक्ति हरा ।
तत्वज्ञान-विकाशिनि विद्या ब्रह्म परा ।। ॐ जय

निश्चल-भक्ति-विधायिनि निर्मल मलहारी ।
शरण-रहस्य-प्रदायिनि सब बिधि सुखकारी ।। ॐ जय

राग-द्वेष-विदारिणि कारिणि मोद सदा ।
भव-भय-हारिणि तारिणि परमानन्दप्रदा ।। ॐ जय

आसुर-भाव-विनाशिनि नाशिनि तम-रजनी
दैवी सद्गुणदायिनि हरि-रसिका सजनी ।। ॐ जय

समता-त्याग सिखावनि, हरि-मुखकी बानी ।
सकल शास्त्र की स्वामिनि श्रुतियों की रानी ।। ॐ जय

दया-सुधा-बरसावनि मातु कृपा कीजै ।
हरि-पद-प्रेम दान कर अपनों कर लीजै ।। ॐ जय

Yajna Parikrama

श्रीमन् नारायण नारायण नारायण नारायण
श्रीयज्ञ नारायण नारायण नारायण नारायण
श्रीहरिहर नारायण नारायण नारायण नारायण
श्रीगीता नारायण नारायण नारायण नारायण

    The Yajna is performed in a Havan Kund (copper Kunds are available at Indian stores), with thin, dry twigs laid out in a square fashion to form a base for the samagri. Full dried coconut (gola) can also be cut in half and used to form a base for the samagri.

  • Rice - 2 cups
  • Black sesame seeds - 2 teaspoons
  • Sugar - 2 teaspoons
  • Dry Fruits - Almonds, Raisins, Coconut, Pistachios, Cashews (chopped)
  • Makhaanaa - chopped
  • Barley - if available - 2 teaspoons
  • Melted Ghee (Purified Butter) in a separate bowl - to be put on the fire with chanting of Swaha

Leaves
Flower
Fruits
Mithaai (Sweets- e.g. Halwaa, Panjiri, Barfi, Boondi Laddoo)
Panchaamrit (Charanaamrit)
Water

Ingredients for Panchaaamrit

  • Milk - half gallon
  • Yogurt - 2 lbs
  • Sugar - 1.5 cups
  • Dry fruits - Makhaanaa, Almonds, Raisins, Coconut - All finely chopped
  • Ghee - few drops
  • Honey - few drops
  • Ganga Jal - few drops, if available
  • Tulsi leaves - few